घोरे संसारवह्नौ प्रलयमुपगते या हि कृत्वा श्मशाने
नृत्यत्यन्यूनशक्तिर्जगदिदमखिलं मुण्डमालाभिरामा ।
भिद्यद्ब्रह्माण्डभाण्डं पटुतरनिनदैरट्टहासैरुदारैः
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ १ ॥
मग्ने लोकेऽम्बुराशौ नलिनभवनुता विष्णुना कारयित्वा
चक्रोत्कृत्तोरुकण्ठं मधुमपि भयदं कैटभं चातिभीमम् ।
पद्मोत्पत्तेः प्रभूतं भयमुत रिपुतोयाहरत्सानुकम्पा
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ २ ॥
विश्वत्राणं विधातुं महिषमथ राणे याऽसुरं भीमरूपं
शूलेनाहत्य वक्षस्यमरपतिनुता पातयन्ती च भूमौ ।
तस्यासृग्वाहिनीभिर्जलनिधिमखिलं शोणिताभं च चक्रे
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ३ ॥
या देवी चण्डमुण्डौ त्रिभुवननलिनीवारणौ देवशत्रू
दृष्ट्वा युद्धोत्सवे तौ द्रुततरमभियातासिना कृत्तकण्ठौ ।
कृत्वा तद्रक्तपानोद्भवमदमुदिता साट्टहासातिभीमा
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ४ ॥
सद्यस्तं रक्तबीजं समरभुवि नता घोररूपानसङ्ख्यान्
राक्तोद्भूतैरसङ्ख्यैर्गजतुरगरथैः सार्थमन्यांश्च दैत्यान् ।
वक्त्रे निक्षिप्य दृष्ट्वा गुरुतरदशनैरापपौ शोणितौघं
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ५ ॥
स्थानाद्भ्रष्टैश्च देवैस्तुहिनगिरितटे सङ्गतैः संस्तुता या
सङ्ख्याहीनैः समेतं त्रिदशरिपुगणैः स्यन्दनेभाश्वयुक्तैः ।
युद्धे शुम्भं निशुम्भं त्रिभुवनविपदं नाशयन्ती च जघ्ने
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ६ ॥
शम्भोर्नेत्रानले या जननमपि जगत्त्राणहेतोरयासीत्
भूयस्तीक्ष्णातिधाराविदलितदनुजा दारुकं चापि हत्वा ।
तस्यासृक्पानतुष्टा मुहुरपि कृतवत्यट्टहासं कठोरं
सास्माकं वैरिवर्गं शमयतु तरसा भद्रदा भद्रकाली ॥ ७ ॥
या देवी कालरात्री तुहिनगिरसुता लोकमाता धरित्री
वाणी निद्रा च माया मनसिजदयिता घोररूपातिसौम्या ।
चामुण्डा खड्गहस्ता रिपुहननपरा शोणितास्वादकामा
सा हन्याद्विश्ववन्द्या मम रिपुनिवहा भद्रदा भद्रकाली ॥ ८ ॥
भद्रकाल्यष्टकं जप्यं शत्रुसङ्क्षयकाङ्क्षिणा ।
स्वर्गापवर्गदं पुण्यं दुष्टग्रहनिवारणम् ॥ ९ ॥
इति श्रीभद्रकाल्यष्टकम् ।